Chanakya Neeti Slokas in Sanskrit: Chapter 6

Going along the flow, we have come to the sixth chapter of Chanakya Neeti, a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 6

Sloka 1: श्रुत्वा धर्म विजानाति श्रुत्वा त्यजति दुर्मतिम्।

श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात्।।

 

Sloka 2: पक्षिणां काकश्चाण्डाल पशूनां चैव कुक्कुरः।

मुनीनां पापश्चाण्डालः सर्वेषु निन्दकः।।

 

Sloka 3: भस्मना शुद्धयते कांस्यं ताम्रमम्लेन शुद्धयति।

राजसा शुद्धयते नारी नदी वेगेन शुद्धयति।।

 

Sloka 4: भ्रमन्सम्पूज्यते राजा भ्रमन्सम्पूज्यते द्विजः।

भ्रमन्सम्पूज्यते योगी स्त्री भ्रमती विनश्यति।।

 

Sloka 5: यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।

यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः।।

 

Sloka 6: तादृशी जायते बुद्धिर्व्यवसायोऽपि तादृशः।

सहायास्तादृशा एव यादृशी भवितव्यता।।

 

Sloka 7: कालः पचति भूतानि कालः संहरते प्रजाः।

कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।।

 

Sloka 8: नैव पश्यति जन्मान्धः कामान्धो नैव पश्यति।

मदोन्मत्ता न पश्यन्ति अर्थी दोषं न पश्यति।।

 

Sloka 9: स्वयं कर्म कोत्यात्मा स्वयं तत्फलमश्नुते।

स्वयं भ्रमति संसारे स्वयं तस्माद्विमुच्यते।।

 

Sloka 10: राजा राष्ट्रकृतं पापं राज्ञः पापं पुरोहितः।

भर्ता च स्त्रीकृतं पापं शिष्य पाप गुरुस्तथा।।

 

Sloka 11: ऋणकर्ता पिता शत्रुर्माता च व्यभिचारिणी।

भार्या रुपवती शत्रुः पुत्र शत्रु र्न पण्डितः।।

 

Sloka 12: लुब्धमर्थेन गृह्णीयात्स्तब्धमञ्जलिकर्मणा।

मूर्खश्छन्दानुरोधेन यथार्थवादेन पण्डितम्।।

 

Sloka 13: कुराजराज्येन कृतः प्रजासुखं

कुमित्रमित्रेण कुतोऽभिनिवृत्तिः।

कुदारदारैश्च कुतो गृहे रतिः

कृशिष्यमध्यापयतः कुतो यशः।।

 

Sloka 14: सिंहादेकं बकादेकं शिक्षेच्चत्वारि कुक्कुटात्।

वायसात्पञ्च शिक्षेच्च षट् शुनस्त्रीणि गर्दभात्।।

 

Sloka 15: प्रभूतं कार्यमपि वा तत्परः प्रकर्तुमिच्छति।

सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते।।

 

Sloka 16: इन्द्रियाणि च संयम्य बकवत्पण्डितो नरः।

देशकालः बलं ज्ञात्वा सर्वकार्याणि साधयेत्।।

 

Sloka 17: सुश्रान्तोऽपि वहेद् भारं शीतोष्णं न पश्यति।

सन्तुष्टश्चरतो नित्यं त्रीणि शिक्षेच्च गर्दभात्।।

 

Sloka 18: प्रत्युत्थानं च युद्धं च संविभागश्च बन्धुषु।

स्वयमाक्रम्य भोक्तं च शिक्षेच्चत्वारि कुक्कुटात्।।

 

Sloka 19: गूढ मैथुनकारित्वं काले काले च संग्रहम्।

अप्रमत्तवचनमविश्वासं पञ्च शिक्षेच्च वायसात्।।

 

Sloka 20: वह्वशी स्वल्पसन्तुष्टः सुनिद्रो लघुचेतनः।

स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः।।

 

Sloka 21: य एतान् विंशतिगुणानाचरिष्यति मानवः।

कार्याऽवस्थासु सर्वासु अजेयः स भविष्यति।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.