Chanakya Neeti Slokas in Sanskrit: Chapter 13

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 13

Sloka 1: मुहुर्तमपि जीवेच्च नरः शुक्लेन कर्मणा।

न कल्पमपि कष्टेन लोक द्वय विरोधिना।।

 

Sloka 2:  गतं शोको न कर्तव्यं भविष्यं नैव चिन्तयेत्।

वर्तमानेन कालेन प्रवर्तन्ते विचक्षणाः।।

 

Sloka 3:  स्वभावेन हि तुष्यन्ति देवाः सत्पुरुषाः पिताः।

ज्ञातयः स्नानपानाभ्यां वाक्यदानेन पण्डिताः।।

 

Sloka 4:  अहो स्वित् विचित्राणि चरितानि महात्मनाम्।

लक्ष्मीं तृणाय मन्यन्ते तद्भरेण नमन्ति च।।

 

Sloka 5:  यस्य स्नेहो भयं तस्य स्नेहो दुःखस्य भाजनम्।

स्नेहमूलानि दुःखानि तानि त्यक्तवा वसेत्सुखम्।।

 

Sloka 6:  अनागत विधाता च प्रत्युत्पन्नगतिस्तथा।

द्वावातौ सुखमेवेते यद्भविष्यो विनश्यति।।

 

Sloka 7:  राज्ञेधर्मणि धर्मिष्ठाः पापे पापाः समे समाः।

राजानमनुवर्तन्ते यथा राजा तथा प्रजाः।।

 

Sloka 8:  जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम्।

मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः।।

 

Sloka 9:  धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विद्वते।

अजागलस्तनस्येव तस्य जन्म निरर्थकम्।।

 

Sloka 10:  दह्यमानां सुतीव्रेण नीचाः परयशोऽग्निना।

अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते।।

 

Sloka 11:  बन्धन्य विषयासङ्गः मुक्त्यै निर्विषयं मनः।

मन एव मनुष्याणां कारणं बन्धमोक्षयोः।।

 

Sloka 12:  देहाभिमानगलिते ज्ञानेन परमात्मनः।

यत्र यत्र मनो याति तत्र तत्र समाधयः।।

 

Sloka 13:  ईप्सितं मनसः सर्वं कस्य सम्पद्यते सुखम्।

दैवायत्तं यतः सर्वं तस्मात् सन्तोषमाश्रयेत्।।

 

Sloka 14:  यथा धेनु सहस्रेषु वत्सो गच्छति मातरम्।

तथा यच्च कृतं कर्म कर्तारमनुगच्छति।।

 

Sloka 15:  अनवस्थितकायस्य न जने न वने सुखम्।

जनो दहति संसर्गाद् वनं सगविवर्जनात।।

 

Sloka 16:  यथा खनित्वा खनित्रेण भूतले वारि विन्दति।

तथा गुरुगतां विद्यां शुश्रुषुरधिगच्छति।।

 

Sloka 17:  कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणि।

तथापि सुधियाचार्यः सुविचार्येव कुर्वते।।

 

Sloka 18:  एकाक्षरं प्रदातारं यो गुरुं नाभिवन्दते।

श्वानयोनि शतं भुक्तवा चाण्डालेष्वभिजायते।।

 

Sloka 19:  युगान्ते प्रचलेन्मेरुः कल्पान्ते सप्त सागराः।

साधवः प्रतिपन्नार्थान्न चलन्ति कदाचन।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.