Chanakya Neeti Slokas in Sanskrit: Chapter 11

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 11

Sloka 1: दातृत्वं प्रियवक्तृत्वं धीरत्वमुचितज्ञता।

अभ्यासेन न लभ्यन्ते चत्वारः सहजा गुणाः।।

Sloka 2: आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत्।

स्वयमेव लयं याति यथा राज्यमधर्मतः।।

Sloka 3: हस्ती स्थूलतनुः स चाङ्कुश वश किं हसितमात्रोंऽकुशः।

दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः।।

Sloka 4: वज्रेणभिहताः पतन्ति गिरयः किं वज्रमात्रं नगाः।

तेजो यस्य विराजते स बलवान् स्थूलेषु कः प्रत्ययः।।

Sloka 5: कलौ दशसहस्राणि हरिस्त्यजति मेदिनीम्।

तदर्द्धे जाह्नवी तोयं तदर्द्धे ग्रामदेवता।।

Sloka 6: गृहासक्तस्य नो विद्या न दया मांसभोजिनः।

द्रव्य लुब्धस्य नो सत्यं न स्त्रैणस्य पवित्रता।।

Sloka 7: न दुर्जनः साधुदशामुपैति

बहु प्रकारैरपि शिक्ष्यमाणः।

आमूलसिक्तं पयसा घृतेन

न निम्बवृक्षोः मधुरत्वमेति।।

Sloka 8: अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि।

न शुद्धयतियथाभाण्डं सुरया दाहितं च तत्।।

Sloka 9: न वेत्ति यो यस्य गुणप्रकर्षं

स तु सदा निन्दति नात्र चित्रम्।

यथा किराती करिकुम्भलब्धां

मुक्तां परित्यज्य विभर्ति गुञ्जाम्।।

Sloka 10: यस्तु संवत्सरं पूर्णं नित्यं मौनेन भुञ्जते।

युगकोटिसहस्रन्तु स्वर्गलोके महीयते।।

Sloka 11: कामं क्रोधं तथा लोभं स्वाद शृङ्गारकौतुकम्।

अतिनिद्राऽतिसेवा च विद्यार्थी ह्याष्ट वर्जयेत्।।

Sloka 12: अकृष्ट फलमूलानि वनवासरतः सदा।

कुरुतेऽहरहः श्राद्धमृषिर्विप्रः स उच्यते।।

Sloka 13: एकाहारेण सन्तुष्टः षड्कर्मनिरतः सदा।

ऋतुकालेऽभिगामी च स विप्रो द्विज उच्यते।।

Sloka 14: लौकिके कर्मणि रतः पशूनां परिपालकः।

वाणिज्यकृषिकर्मा यः स विप्रो वैश्य उच्यते।।

Sloka 15: परकार्यविहन्ता च दाम्भिकः स्वार्थसाधकः।

छलीद्वेषी मदुक्रूरो मार्जार उच्यते।।

Sloka 16: वापीकूपतडागानामारामसुखश्वनाम्।

उच्छेदने निराशंङ्क स विप्रो म्लेच्छ उच्यते।।

Sloka 17: देवद्रव्यं गुरुद्रव्यं परदाराभिमर्षणम्।

निर्वाहः सर्वभूतेषु विप्रश्चाण्डाल उच्यते।।

Sloka 18: देयं भोज्यधनं सुकृतिभिर्नो सञ्चयस्तस्य वै

श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्ति स्थिता।

अस्माकं मधुदानयोगरहितं नष्टं चिरात्सञ्चित

निर्वाणादिति नष्टपादयुगलं घर्षत्यमी मक्षिकाः।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.