Chanakya Neeti in Sanskrit–Chapter 1

Starting with new series, we present the original Slokas of the famous volume Chanakya Neeti by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 1

Sloka 1: प्रणम्य शिरसा विष्णुं त्रैलोक्याधिपतिं प्रभुम्।

नाना शास्त्रोद्धृतं वक्ष्ये राजनीति समुच्चयम्।।

Sloka 2: अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः।

धर्मोपदेशविश्यातं कार्याऽकार्याशुभाशुभम्।।

Sloka 3: तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया।

येन विज्ञान मात्रेण सर्वज्ञत्वं प्रपद्यते।।

Sloka 4: मूर्खशिष्योपदेशेन दुष्टास्त्रीभरणेन च।

दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति।।

Sloka 5: माता यस्य गृहे नास्ति भार्या चाप्रियवादिनी।

अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्।।

Sloka 6: दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः।

ससर्पे गृहे वासो मृत्युरेव न संशयः।।

Sloka 7: आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि।

आत्मानं सततं रक्षेद् दारैरपि धनैरपि।।

Sloka 8: आपदर्थे धनं रक्षेच्छ्रीमतांकुतः किमापदः।

कदाचिच्चलिता लक्ष्मी संचिताऽपि विनश्यति।।

Sloka 9: यस्मिन् देशे न सम्मानो न वृत्तिर्न च बान्धवाः।

न च विद्यागमोऽप्यस्ति वासस्तत्र न कारयेत्।।

Sloka 10: धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः।

पञ्च यत्र न विद्यन्ते न तत्र दिवसे वसेत।।

Sloka 11: लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता।

पञ्च यत्र न विद्यन्ते न कुर्यात्तत्र संगतिम्।।

Sloka 12: जानीयात्प्रेषणेभृत्यान् बान्धवान्व्यसनाऽऽगमे।

मित्रं याऽऽपत्तिकालेषु भार्या च विभवक्षये।।

Sloka 13: आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसण्कटे।

राजद्वारे श्मशाने च यात्तिष्ठति स बान्धवः।।

Sloka 14: यो ध्रुवाणि परित्यज्य ह्यध्रुवं परिसेवते।

ध्रुवाणि तस्य नश्यन्ति चाध्रुवं नष्टमेव तत्।।

Sloka 15: वरयेत्कुलजां प्राज्ञो निरूपामपि कन्यकाम्।

रूपवतीं न नीचस्य विवाहः सदृशे कुले।।

Sloka 16: नखीनां च नदीनां च शृङ्गीणां शस्त्रपाणिनाम्।

विश्वासो नैव कर्तव्यः स्त्रीषु राजकालेषु च।।

Sloka 17: विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम्।

नीचादप्यत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि।।

Sloka 18: स्त्रीणां द्विगुण अहारो लज्जा चापि चतुर्गुणा।

साहसं षड्गुणं चैव कामश्चाष्टगुणः स्मृतः।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.