Chanakya Neeti Slokas in Sanskrit: Chapter 7

Moving forward, we present the seventh chapter of Chanakya Neeti, a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 7

Sloka 1: अर्थनाश मनस्तापं गृहिण्याश्चरितानि च।

नीचं वाक्यं चापमानं मतिमान्न प्रकाशयेत।।

Sloka 2: धनधान्य प्रयोगेषु विद्या सङ्ग्रहेषु च।

आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।।

Sloka 3: सन्तोषामृततृप्तानां यत्सुखं शान्तिरेव च।

न च तद्धनलुब्धानामितश्चेतश्च धावाताम्।।

Sloka 4: सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने धने।

त्रिषु चैव न कर्तव्योऽध्ययने जपदानयोः।।

Sloka 5: विप्रयोर्विप्रवह्नेश्च दम्पत्योः स्वामिभृत्ययोः।

अन्तरेण न गन्तव्यं हलस्य वृषभस्य च।।

Sloka 6: पादाभ्यां न स्पृशेदग्निं गुरुं ब्राह्मणमेव च।

नैव गावं कुमारीं च न वृद्धं न शिशुं तथा।।

Sloka 7: शकटं पञ्चहस्तेन दशहस्तेन वाजिनम्।

हस्तिनं शतहस्तेन देशत्यागेन दुर्जनम्।।

Sloka 8: हस्ती त्वंकुशमात्रेण बाजो हस्तेन तापते।

शृङ्गीलकुटहस्तेन खड्गहस्तेन दुर्जनः।।

Sloka 9: तुष्यन्ति भोजने विप्रा मयूरा धनगर्जिते।

साधवः परसम्पत्तौ खलाः पर विपत्तिषु।।

Sloka 10: अनुलोमेन बलिनं प्रतिलोमेन दुर्जनम्।

आत्मतुल्यबलं शत्रुं विनयेन बलेन वा।।

Sloka 11: बाहुवीर्यं बलं राजा ब्राह्मणो ब्रह्मविद बली।

रूपयौवनमाधुर्यं स्त्रीणां बलमुत्तमम्।।

Sloka 12: नात्यन्तं सरलेन भाव्यं गत्वा पश्य वनस्थलीम्।

छिद्यन्ते सरलास्तत्र कुब्जास्तिष्ठन्ति पादपाः।।

Sloka 13: यत्रोदकं तत्र वसन्ति हंसाः

स्तथैव शुष्कं परिवर्जयन्ति।

न हंसतुल्येन नरेणभाव्यम्

पुनस्त्यजन्ते पुनराश्रयन्ते।।

Sloka 14: उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।

तडागोदरसंस्थानां परिदाह इदाम्मससाम्।।

Sloka 15: स्वर्गस्थितानामिह जीवलोके

चत्वारि चिह्नानि वसन्ति देहे।

दानप्रसङ्गो मधुरा च वाणी

देवार्चनं ब्राह्मणतर्पणं च।।

Sloka 16: अत्यन्तलेपः कटुता च वाणी

दरिद्रता च स्वजनेषु वैरम्।

नीच प्रसङ्गः कुलहीनसेवा

चिह्नानि देहे नरकस्थितानाम्।।

Sloka 17: गम्यते यदि मुगेन्द्रमन्विरे

लभ्यते करिकपोलमौक्तिकम्।

जम्बूकाश्रयगतं च प्राप्यते

वत्सपुच्छखरचर्मखण्डम्।।

Sloka 18: शुनः पुच्छमिव व्यर्थं जीवितं विद्यया विना।

न गुह्यगोपने शक्तं न च दंशनिवारणे।।

Sloka 19: वाचा च मनसः शौचं शौचमिन्द्रियनिग्रहः।

सर्वभूतदया शौचमेतचछौचं परमार्थिनाम्।।

Sloka 20: पुष्पे गन्धे तिले तैलं काष्ठे वह्निः पयोघृतम्।

इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.