Chanakya Neeti Slokas in Sanskrit: Chapter 9

This perhaps would be the smallest chapter of Chanakya Neeti. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 9

Sloka 1: मुक्तिमिच्छसि चेतात विषयान् विषवत् त्यज।

क्षमाऽऽर्जवदयाशौचं सत्यं पीयूषवत् पिब।।

Sloka 2: परस्परस्य मर्माणि ये भाषन्ते नराधमाः।

ते एव विलयं यान्ति वल्मीकोदरसर्पवत्।।

Sloka 3: गन्धं सुवर्णे फलमिक्षुदण्डे

नाकारिपुष्पं खलु चन्दनस्य।

विद्वान धनी भूपतिदीर्घजीवी

धातुः पुरा कोऽपि न बुद्धिदोऽभूत्।।

Sloka 4: सर्वौषधीनामममृतं प्रधानं

सर्वेषु सौख्येष्वशनं प्रधानम्।

सर्वेन्द्रियाणां नयनं प्रधानं

सर्वेषु गात्रेषु शिरः प्रधानम्।।

Sloka 5: दूतो न सञ्चरित खे न चलेच्च वार्ता

पूर्वं न जल्पितमिदं न च सङ्गमोऽस्ति।

व्योम्निस्मिं रविशशिग्रहणं प्रशस्तं

जानाति यो द्विजवरः स कथं न विद्वान्।।

Sloka 6: विद्यार्थी सेवकः पान्थः क्षुधार्तो भयकातरः।

भाण्डारी च प्रतिहारी सप्तसुप्तान् प्रबोधयेत।।

Sloka 7: अहिं नृपं च शार्दूलं वराटं बालकं तथा।

परश्वानं च मूर्खं च सप्तसुप्तान् बोधयेत्।।

Sloka 8: अर्थाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजिनः।

ते द्विजाः किं करिष्यन्ति निर्विषा इव पन्नगाः।।

Sloka 9: यस्मिन् रुष्टे भयं नास्ति तुष्टे नैव धनागमः।

निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति।।

Sloka 10: निर्विषेणापि सर्पेण कर्तव्या महती फणा।

विषमस्तु न वाप्यस्तु घटाटोपो भयङ्करः।।

Sloka 11: प्राप्त द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः।

रात्रौ चौरप्रसङ्गेन कालो गच्छति धीमताम्।।

Sloka 12: स्वहस्तग्रथिता माला स्वहस्तघृष्टचन्दनम्।

स्वहस्तलिखितस्तोत्रं शक्रस्यापि श्रियं हरेत्।।

Sloka 13: इक्षुदण्डास्तिलाः शूद्रा कान्ताकाञ्चनमेदिनी।

चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनम्।।

Sloka 14: दरिद्रता धीरयता विराजते

कुवस्त्रता स्वच्छतया विराजते।

कदन्नता चोष्णतया विराजते

कुरूपता शीलतया विराजते।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.