Chanakya Niti Slokas in Sanskrit: Chapter 17

We bring you the 17th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is the last chapter of this great volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 17

Sloka 1: पुस्तकं प्रत्याधीतं नाधीतं गुरुसन्निधौ ।

सभामध्ये न शोभन्ते जारगर्भा इव स्त्रियः ।।

 

Sloka 2: कृते प्रतिकृतिं कुर्यात् हिंसेन प्रतिहिंसनम् ।

तत्र दोषो न पतति दुष्टे दौष्ट्यं समाचरेत् ।।

 

Sloka 3: यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितम् ।

तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ।।

 

Sloka 4: लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः

सत्यं यत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किम् ।

सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः

सद्विद्या यदि किं धनैरपयशौ यद्यस्ति किं मृत्युना ।।

 

Sloka 5: पिता रत्नाकरो यस्य लक्ष्मीर्यस्य सहोदरी ।

शञ्खो भिक्षाटनं कुर्यान्न दत्तमुपतिष्ठति ।।

 

Sloka 6: अशवतस्तुभवेत्साधुर्ब्रह्मचारी च निर्धनः ।

व्याधिष्ठो देवभक्तश्च वृद्धा नारी पतिव्रता ।।

 

Sloka 7: नान्नोदकसमं दानं न तिथिर्द्वादशी समा ।

न गायत्र्याः परो मन्त्रो न मातुर्दैवतं परम् ।।

 

Sloka 8: तक्षकस्य विषं दन्ते मक्षिकाया मुखे विषम् ।

वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जने विषम् ।।

 

Sloka 9: पत्युराज्ञां विना नारी उपोष्य व्रतचारिणी ।

आयुष्य हरते भर्तुः सा नारी नरकं व्रजेत् ।।

 

Sloka 10: न दानैः शुध्यते नारी नोपवासशतैरपि ।

न तीर्थसेवया तद्वद् भतुः पादोदकैर्यथा ।।

 

Sloka 11: दानेन पाणिर्न तु कङ्कणेन

स्नानेन शुद्धिर्न तु चन्दनेन ।

मानेन तृप्तिर्न तु भोजनेन

ज्ञानेन मुक्तिर्न तु मण्डनेन ।।

 

Sloka 12: नापितस्य गृहे क्षौरं पाषाणे गन्धलेपनम् ।

आत्मरूपं जले पश्यन् शक्रस्यापि श्रियं हरेत् ।।

 

Sloka 13: सद्यः प्रज्ञाहरा तुण्डी सद्यः प्रज्ञाकरी वचा ।

सद्यः शक्तिहरा नारी सद्यः शक्तिकरं पयः ।।

 

Sloka 14: यदि रामा यदि च रमा यदि तनयो विनयगुणोपेतः ।

तनयो तनयोत्पत्तिः सुरवरनगरे किमाधिक्यम् ।।

 

Sloka 15: आहारनिद्रा भय मैथुरानि

समानि चैतानि नृणां पशूनाम् ।

ज्ञाने नराणामधिको विशेषो

ज्ञानेन हीना पशुभिः समानाः ।।

 

Sloka 16: दानार्थिनो मधुकरा यदि कर्णतालै

दूरीकृता करिवरेण मदान्धबुद्धया ।

तस्यैव गण्डयुगमण्डनहानिरेव

भृङ्गाः पुनर्विकचपद्मवने वसन्ति ।।

 

Sloka 17: राजा वेश्या यमश्चाग्निः चौराः बालक याचकाः ।

परदुःखं न जानन्ति अष्टमो ग्रामकण्टकः ।।

 

Sloka 18: अधः पश्यसि किं बाले पतितं तव किं भुवि ।

रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ।।

 

Sloka 19: व्यालाश्रयाऽपि विफलापि सकण्टकाऽपि।

वक्राऽपि पङ्किल-भवाऽपि दुरासदाऽपि।

गन्धेन बन्धुरसि केतकि सर्वजन्तोर्

एको गुणः खलु निहन्ति समस्तदोषान्।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.