Chanakya Neeti Slokas in Sanskrit: Chapter 5

As we move along presenting the original Slokas of Chanakya Neeti, we have reached the fifth chapter of this great volume. Chanakya Neeti, a volume of great insight and wisdom written by the famous political scientist, surgeon, and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 5

Sloka 1: गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः।
पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यगतो गुरुः।।

Sloka 2: यथा चतुर्भिः कनकं परीक्ष्यते
निर्घषणच्छेदन तापताडनैः।
तथा चतुर्भिः पुरुषः परीक्ष्यते
त्यागेन शीलेन गुणेन कर्मणा।।

Sloka 3: तावद् भयेषु भेतव्यं यावद्भयमनागतम्।
आगतं तु भयं दृष्टवा प्रहर्तव्यमशङ्कया।।

Sloka 4: एकोदरसमुद्भूता एक नक्षत्र जातका।
न भवन्ति समा शीले यथा बदरिकण्टकाः।।

Sloka 5: निस्पृहो नाधिकारी स्यान्न कामी भण्डनप्रिया।
नो विदग्धः प्रियं ब्रूयात् स्पष्ट वक्ता न वञ्चकः।।

Sloka 6: मूर्खाणां पण्डिता द्वेष्या अधनानां महाधाना।
वाराङ्गाना कुलीनानां सुभगानां च दुर्भगा।।

Sloka 7: आलस्योपहता विद्या परहस्तं गतं धनम्।
अल्पबीजहतं क्षेत्रं हतं सैन्यमनायकम्।।

Sloka 8: अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते।
गुणेन ज्ञायते त्वार्य कोपो नेत्रेण गम्यते।।

Sloka 9: वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते।
मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम्।।

Sloka 10: अन्यथा वेदपाण्डित्यं शास्त्रमाचारमन्यथा।
अन्यथा वदतः शान्तं लोकाः क्लिश्यन्ति चान्यथा।।

Sloka 11: दारिद्रयनाशनं दानं शीलं दुर्गतिनाशनम्।
अज्ञानतानाशिनी प्रज्ञा भावना भयनाशिनी।।

Sloka 12: नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः।
नास्ति कोप समो वह्नि र्नास्ति ज्ञानात्परं सुखम्।।

Sloka 13: जन्ममृत्युर्नियत्येको भुनक्तयेकः शुभाशुभम्।
नरकेषु पतत्येकः एको याति परां गतिम्।।

Sloka 14: तृणं ब्रह्मविद स्वर्गं तृणं शूरस्य जीवनम्।
जिमाक्षस्य तृणं नारी निःस्पृहस्य तृणं जगत्।।

Sloka 15: विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च।
व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च।।

Sloka 16: वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम्।
वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च।।

Sloka 17: नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम्।
नास्ति चक्षुसमं तेजो नास्ति चान्नसमं प्रियम्।।

Sloka 18: अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः।
मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः।।

Sloka 19: सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्।।

Sloka 20: चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमन्दिरे।
चलाचले च संसारे धर्म एको हि निश्चलः।।

Sloka 21: नाराणां नापितो धूर्तः पक्षिणां चैव वायसः।
चतुष्पदां शृगालस्तु स्त्रीणां धूर्ता च मालिनी।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.