Chanakya Neeti Slokas in Sanskrit: Chapter 14

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing the original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon, and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 14

Sloka 1: पृथिव्यां त्रीणी रत्नानि अन्नमापः सुभाषितम् ।

मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।

Sloka 2: आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ।

दारिद्रयरोग दुःखानि बन्धनव्यसनानि च ।।

Sloka 3: पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्मही ।

एतत्सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ।।

Sloka 4: बहूनां चैव सत्तवानां रिपुञ्जयः ।

वर्षान्धाराधरो मेधस्तृणैरपि निवार्यते ।।

Sloka 5: जले तैलं खले गुह्यं पात्रे दानं मनागपि ।

प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तितः ।।

Sloka 6: धर्माऽऽख्याने श्मशाने च रोगिणां या मतिर्भवेत् ।

सा सर्वदैव तिष्ठेच्चेत् को न मुच्येत बन्धनात् ।।

Sloka 7: उत्पन्नपश्चात्तापस्य बुद्धिर्भवति यादृशी ।

तादृशी यदि पूर्वा स्यात्कस्य स्यान्न महोदयः ।।

Sloka 8: दाने तपसि शौर्ये च विज्ञाने विनये नये ।

विस्मयो न हि कर्तव्यो बहुरत्ना वसुन्धरा ।।

Sloka 9: दूरस्थोऽपि न दूरस्थो यो यस्य मनसि स्थितः ।

यो यस्य हृदये नास्ति समीपस्थोऽपि दूरतः ।।

Sloka 10: यस्माच्च प्रियमिच्छेत् तस्य ब्रूयात्सदा प्रियम् ।

व्याघ्रो मृगवधं गन्तुं गीतं गायति सुस्वरम् ।।

Sloka 11: अत्यासन्न विनाशाय दूरस्था न फलप्रदा ।

सेव्यतां मध्यभागेन राजवह्निगुरुस्त्रियः ।।

Sloka 12: अग्निर्देवो द्विजातीनां मनीषिणां हृदि दैवतम् ।

प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ।।

Sloka 13: स जीवति गुणा यस्य यस्य धर्म स जीवति ।

गुण धर्म विहीनस्य जीवितं निष्प्रयोजनम् ।।

Sloka 14: यदीच्छसि वशीकर्तुं जगदेकेन कर्मणा ।

परापवादशास्त्रेभ्यो गां चरन्तीं निवारय ।।

Sloka 15: प्रस्तावसदृशं वाक्यं प्रभावसदृशं प्रियम् ।

आत्मशक्तिसमं कोपं यो जानाति स पण्डितः ।।

Sloka 16: एक एव पदार्थस्तु त्रिधा भवति वीक्षति ।

कुपणं कामिनी मांसं योगिभिः कामिभिः श्वभिः ।।

Sloka 17: सुसिद्धमौषधं धर्मं गृहछिद्रं च मैथुनम् ।

कुभुक्तं कुश्रुतं चैव मतिमान्न प्रकाशयेत् ।।

Sloka 18: तावन्मौनेन नीयन्ते कोकिलश्चैव वासराः ।

यावत्सर्वं जनानन्ददायिनी वाङ्न प्रवर्तते ।।

Sloka 19: धर्मं धनं च धान्यं च गुरोर्वचनमौषधम् ।

सङ्गृहीतं च कर्तव्यमन्यथा न तु जीवति ।।

Sloka 20: त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।

कुरु पुण्यमहोरात्रं स्मर नित्यमनित्यतः ।।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.