Chanakya Neeti Slokas in Sanskrit: Chapter 15

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 15

Sloka 1: यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।

तस्य ज्ञानेन मोक्षेण किं जटा भसमलेपनैः ।।

 

Sloka 2: एकमेवाक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत् ।

पृथिव्यां नास्ति तद्द्रव्यं यद् दत्त्वा चाऽनृणी भवेत् ।।

 

Sloka 3: खलानां कण्टकानां च द्विविधैव प्रतिक्रिया ।

उपानामुखभङ्गो वा दूरतैव विसर्जनम् ।।

 

Sloka 4: कुचैलिनं दन्तमलोपधारिणं

बह्वाशिनं निष्ठुरभाषितं च ।

सूर्योदये चास्तमिते शयानं

विमुञ्चतेश्रीर्यदि चक्राणिः ।।

 

Sloka 5: त्यजन्ति मित्राणि धनैर्विहीनं

दाराश्च भृत्याश्च सुहृज्जनाश्च ।

तञ्चार्थवन्तं पुनराश्रयन्ते

ह्यर्थो हि लोके पुरुषस्य बन्धुः ।।

 

Sloka 6: अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति ।

प्राप्ते चैकादशे वर्षे समूलं तद् विनश्यति ।।

 

Sloka 7: अयुक्तस्वामिनो युक्तं युक्तं नीचस्य दूषणम् ।

अमृतं राहवे मृत्युर्विषं शङ्करभूषणम् ।।

 

Sloka 8: तद् भोजनं यद् द्विज भुक्तशेषं

तत्सौहृदं यत्क्रियते परस्मिन् ।

सा प्राज्ञता या न करोति पापं

दम्भं विना यः क्रियते स धर्मः ।।

 

Sloka 9: मणिर्लुण्ठति पादाग्रे काञ्चः शिरसि धार्यते ।

क्रयविक्रयवेलायां कायः काञ्चो मणिर्मणिः ।।

 

Sloka 10: अनन्तशास्त्रं बहुलाश्च विद्या

अल्पं च कालो बहुविघ्नता च ।

आसारभूतं तदुपासनीयं

हंसो यथा क्षीरमिवाम्बुमध्यात्।।

 

Sloka 11: दूरादागतं पथिश्रान्तं वृथा च गृहमागतं ।

अनर्चयित्वा यो भुङ्कते स वै चाण्डाल उच्यते ।।

 

Sloka 12: पठन्ति चतुरो वेदान् धर्मशास्त्राण्यनेकशः ।

आत्मानं नैव जानन्ति दर्वी पाकर सं यथा ।।

 

Sloka 13: धन्या द्विजमयीं नौका विपरीता भवार्णवे ।

तरन्त्यधोगता सर्वे उपस्थिता पतन्त्येव हि ।।

 

Sloka 14: अयममृतणनिधानं नायको औषधीनां

अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः ।

भवति विगतरश्मिर्मण्डले प्राप्य भानोः

परसदननिविष्ट को न लघुत्वं याति ।।

 

Sloka 15: अलिरयं नलिनिदलमध्यमः

कमलिनीमरकन्दमदालसः ।

विधिवशात्प्रदेशमुपागतः

कुरजपुष्परसं बहु मन्यते ।।

 

Sloka 16: पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभोऽयेन रोषा

अबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे ।

गेहं मे छेदयन्ति प्रतिदिवसममाकान्त पूजानिमित्तात्

तस्मात् खिन्ना सदाऽहं द्विज कुलनिलयं नाथ युक्तं त्यजामि ।।

 

Sloka 17: बन्धनानि खलु सन्ति बहूनि

प्रेमरज्जुकृतबन्धनमन्यत् ।

दारुभेदनिपुणोऽपि षडंघ्रि

र्निष्क्रियो भवति पङ्कजकोशे ।।

 

Sloka 18: छिन्नोऽपि चन्दनतरुर्न जहाति गन्धं

वृद्धोऽपि वारणपतिर्न जहाति लीलानम् ।

यन्त्रार्पितो मधुरतां न जहार्ति चेक्षु

क्षणोऽपि न त्यजति शीलगुणान्कुलीनः ।।

 

Sloka 19: उर्ध्यां कोऽपि महीधरो लघुतरो दोर्म्यां धृतौ लीलया

तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे ।

त्वां त्रैलोक्यधरं वहायि कुचयोरग्रेण नो गण्यते

किं वा केशव भाषणेन बहुना पुण्यं यशसा लभ्यते ।।

Comments

comments