Chanakya Neeti Slokas in Sanskrit: Chapter 12

We bring you the 11th chapter of Chanakya Neeti as we continue our series of providing original text of this volume. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 12

Sloka 1: सानन्दं सदनं सुताश्च सुधयः कान्ता प्रियालापिनी

इच्छापूर्तिधनं स्वयोषिति रतिः स्वाज्ञापरः सेवकाः।

आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे

साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रम्।।

Sloka 2: आर्तेषु विप्रेषु दयान्वितश्चेच्छ्रद्धेन यः स्वल्पमुपैति दानम्।

अनन्तपारं समुपैति दानं यद्दीयते तन्न लभेद् द्विजेभ्यः।।

Sloka 3: दाक्षिण्यं स्वजने दया परजने शाठ्यं सदा दुर्जने

प्रीतिः साधुजने स्मय खलजने विद्वज्जने चार्जवम्।

शौर्यं शत्रुजने क्षमा गुरुजने नारीजने धूर्तताः

इत्थं ये पुरुषा कलासु कुशलास्तेष्वेव लोकस्थितिः।।

Sloka 4: हस्तौ दानवर्जितौ श्रुतिपुटौ सारस्वतद्रोहिणि

नेत्रे साधुविलोकरहिते पादौ न तीर्थं गतौ।

अन्यायार्जितवित्तपुर्णमुदरं गर्वेण तुङ्गं शिरौ

रे रे जम्बुक मुञ्च मुञ्च सहसा नीचं सुनिन्द्यं वपुः।।

Sloka 5: येषां श्रीमद्यशोदासुत पद कमले नास्ति भक्तिर्नराणाम्

येषामाभीरकन्या प्रियगुणकथने नानुरक्ता रसज्ञा।

तेषां श्रीकृष्णलीला ललितरसकथा सादरौ नैव कर्णौ

धिक्तान् धिक्तान् धिगेतान् कथयति सततं कीर्तनस्था मृदङ्ग।।

Sloka 6: पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं

नोलूकोऽप्यवलोकयते यदि दिवा सूर्यस्य किं दूषणम्।

वर्षा नैव पतति चातकमुखे मेघस्य किं दूषणम्

यत्पूर्वं विधिना ललाट लिखितं तन्मार्जितुं कः क्षमः।।

Sloka 7: सत्सङ्गतेर्भवति हि साधुता खलानां

साधूनां न हि खलसङ्गतेः खलत्वम्।

आमोदं कुसुमभवं मृदेव धत्ते

मृद्गन्धं न हि कुसुमानि धारयन्ति।।

Sloka 8: साधूनां दर्शनं पुण्यं तीर्थभूताः हि साधवः।

कालेन फलते तीर्थः सद्यः साधु समागमः।।

Sloka 9: विप्रस्मिन्नगरे महान् कथय कस्ताल द्रुमाणां गणः

को दाता रजको ददाति वसनं प्रातर्गृहीत्वा निशि।

को दक्षः परिवित्तदारहरणं सर्वेऽपि दक्षाः जनाः

कस्माज्जीवति हे सखे विषकृमिन्यायेन जीवाम्यहम्।।

Sloka 10: न विप्रपादोदक पङ्किलानि

न वेदशास्त्रध्वनिगर्जितानि।

स्वाहास्वधाकरध्वनिवर्जितानि

श्मशानतुल्यानि गृहाणितानि।।

Sloka 11: सत्यं माता पिता ज्ञानं धर्मो भ्राता दया सखा।

शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः।।

Sloka 12: वयसः परिणामे हि यः खलाः खल एव सः।

सुपक्वमपि माधुर्यं नोपायतीन्द्र वारुणम्।।

Sloka 13: निमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः।

पत्युतसाहयुता नार्याः अहं कृष्ण रणोत्सवः।।

Sloka 14: मातृवत् परदारेषु परद्रव्याणि लोष्ठवत्।

आत्मवत् सर्वभूतानि यः पश्यति सः पण्डितः।।

Sloka 15: धर्मे तत्परता मुखे मधुरता दाने समुत्साहता

मित्रेऽवञ्चकता गुरौ विनयता चित्तेऽपि गम्भीरता।

आचारे शुचिता गुणे रसिकता शास्त्रेषु विज्ञातृता

रूपे सुन्दरता शिवे भजनता त्वय्यस्ति भो राघव।।

Sloka 16: काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः

सूर्यस्तीव्रकरः शशिः क्षयकरः क्षारोहि निरवारिधिः।

कामो नष्टतनुर्बलिर्दितिसुतो नित्य पशुः कामगोः

नैतास्ते तुलयामि भो रघुपते कस्योपमा दीयते।।

Sloka 17: विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम्।

अनृतं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत् कैतवम्।।

Sloka 18: अनालोच्य व्ययं कर्ता चानाथः कलहप्रियः।

आर्तः स्त्रीहसर्वक्षेत्रेषु नरः शीघ्रं विन्श्यति।।

Sloka 19: जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।

स हेतु सर्वविद्यानां धर्मस्य च धनस्य च।।

Comments

comments

Leave a Reply

badge