Chanakya Neeti Slokas in Sanskrit: Chapter 8

I hope you have enjoyed the journey so far reading the text of Chanakya Neeti in the original Sanskrit format. This is indeed a volume of great insight and wisdom written by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation. We move ahead with our presentation.

Chanakya Neeti Slokas in Sanskrit: Chapter 8

Sloka 1: अधमा धनमिच्छन्ति धनं मानं च मध्यमाः।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्।।

Sloka 2: इक्षुरापः पयोमूलं ताम्बूलं फलमौषधम्।
भक्ष्यित्वापि कर्तव्या स्नानदानादिकाः क्रियाः।।

Sloka 3: दीपो भक्ष्यते ध्वान्तं कज्जलं च प्रसूयते।
यदन्नं भक्ष्यते नित्यं जायते तादृशी प्रजा।।

Sloka 4: चाण्डालानां सहस्रैश्च सूरिभिस्तत्वदर्शिभिः।
एको हि यवनः प्रोक्तो न नीचो चवनात्परः।।

Sloka 5: वित्तं देहि गुणान्वितेषु मतिमान्नान्यत्र देहि क्वचित्
प्राप्तं वारिनिधेर्जलं धनयुचां माधुर्ययुक्तं सदा।
जीवाः स्थावर जङ्गमाश्च सकला सञ्जीव्य भूमण्डलं
भूयं पश्य तदैव कोटिगुणितं गच्छन्त्यम्भोनिधिम्।।

Sloka 6: तैलाभ्यङ्गे चिताधूमे मैथुने क्षौर कर्मणि।
तावद्भवति चाण्डालो यावत्स्नानं न समाचरेत्।।

Sloka 7: अजीर्णे भेषजं वारि जीर्णे तद् बलप्रदम्।
भोजने चामृतं वारि भोजनान्तें विषप्रदम्।।

Sloka 8: हतं ज्ञानं क्रियाहीनं हतश्चाज्ञानता नरः।
हतं निर्णायकं सैन्यं स्त्रियो नष्टा ह्यभर्तृका।।

Sloka 9: वृद्धकाले मृता भार्या बन्धुहस्तगतं धनम्।
भोजनं च पराधीनं तिस्र पुंसां विडम्बना।।

Sloka 10: नाग्निंहोत्रं विना वेदा न च दानं विना क्रिया।
न भावेन विना सिद्धिस्तस्माद् भावो हि कारणम्।।

Sloka 11: काष्ठपाषाण धातुनां कृत्वा भावेन सेवनम्।
श्रद्धया च तथा सिद्धिस्तस्य विष्णोः प्रसादतः।।

Sloka 12: न देवो विद्यते काष्ठे न पाषाणे न मृण्मये।
भावे हि विद्यते देवस्तस्माद् भावो हि कारणम्।।

Sloka 13: शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम्।
न तृष्णया परो व्याधिर्न च धर्मो दयापरः।।

Sloka 14: क्रोधो वैवस्वतो राजा तृष्णा वैतरणी नदी।
विद्या कामदुधा धेनुः संतोषो नन्दनं वनम्।।

Sloka 15: गुणो भूषयते रूपं शीलं भूषयते कुलम्।
सिद्धिर्भूषयते विद्यां भोगो भूषयते धनम्।।

Sloka 16: निर्गुणस्य हतं रूपं दुःशीलस्य हतं कुलम्।
असिद्धस्य हता विद्या अभोगस्य हतं धनम्।।

Sloka 17: शुद्धं भूमिगतं तोयं शुद्धा नारी पतिव्रता।
शुचिः क्षेमकरो राजा सन्तोषी ब्राह्मण शुचिः।।

Sloka 18: असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश्च महीभूलः।
सलज्जा गणिका नष्टानिर्लज्जाश्च कुलाङ्गनाः।।

Sloka 19: किं कुलेन विशालेन विद्याहीने च देहिनाम्।
दुष्कुलं चापि विदुषी देवैरपि हि पूज्यते।।

Sloka 20: विद्वान् प्रशस्यते लोके विद्वान् सर्वत्र गौरवम्।
विद्वया लभते सर्वं विद्या सर्वत्र पूज्यते।।

Sloka 21: मांसभक्ष्यैः सुरापानैमूर्खैश्छास्त्रवर्जितैः।
पशुभिः पुरुषाकारैण्क्रान्ताऽस्ति च मेदिनी।।

Sloka 22: अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः।
यजमानं दानहीनो नास्ति यज्ञसमो रिपुः।।

Comments

comments

Leave a Reply

badge