Chanakya Neeti Slokas in Sanskrit: Chapter 4

We have come up to the 4th chapter of Chanakya Neeti. Carrying forward our series, we present the original Slokas of the famous volume Chanakya Neeti by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 4

Sloka 1: आयुः कर्म वित्तञ्च विद्या निधनमेव च।

पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः।।

Sloka 2: साधुम्यस्ते निवर्तन्ते पुत्रः मित्राणि बान्धवाः।

ये च तैः सह गन्तारस्तद्धर्मात्सुकृतं कुलम्।।

Sloka 3: दर्शनध्यानसंस्पर्शैर्मत्स्यी कूर्मी च पक्षिणि।

शिशु पालयते नित्यं तथा सज्जनसङ्गतिः।।

Sloka 4: यावत्स्वस्थो ह्यय देहः तावन्मृत्युश्च दूरतः।

तावदात्महितं कुर्यात् प्रणान्ते किं करिष्यति।।

Sloka 5: कामधेनुगुणा विद्या ह्ययकाले फलदायिनी।

प्रवासे मातृसदृशा विद्या गुप्तं धनं स्मृतम्।।

Sloka 6: एकोऽपि गुणवान् पुत्रो निर्गुणैश्च शतैर्वरः।

एकश्चन्द्रस्तमो हन्ति न च ताराः सहस्रशः।।

Sloka 7: मूर्खश्चिरायुर्जातोऽपि तस्माज्जातमृतो वरः।

मृतः स चाल्पदुःखाय यावज्जीवं जडो दहेत्।।

Sloka 8: कुग्रामवासः कुलहीन सेवा

कुभोजन क्रोधमुखी च भार्या।

पुत्रश्च मूर्खो विधवा च कन्या

विनाग्निमेते प्रदहन्ति कायम्।।

Sloka 9: किं तया क्रियते धेन्वा या न दोग्ध्रो न गर्भिणी।

कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान्।।

Sloka 10: संसारातपदग्धानां त्रयो विश्रान्तिहेतवः।

अपत्यं च कलत्रं च सतां सङ्गतिरेव च।।

Sloka 11: सकृज्जल्पन्ति राजानः सकृज्जल्पन्ति पण्डिताः।

सकृत्कन्या प्रदीयन्ते त्रीण्येतानि सकृत्सकृत्।।

Sloka 12: एकाकिना तपो द्वाभयां पठनं गायनं त्रिभिः।

चतुर्भिगमन क्षेत्रं पञ्चभिर्बहुभि रणम्।।

Sloka 13: सा भार्या या सुचिदक्षा सा भार्या या पतिव्रता।

सा भार्या या पतिप्रीता सा भार्या सत्यावादिनी।।

Sloka 14: अपुत्रस्य गृहं शून्यं दिशः शून्यास्त्वबान्धवाः।

मूर्खस्य हृदयं शून्यं सर्वशून्यं दरिद्रता।।

Sloka 15: अनभ्यासे विषं शास्त्रमजीर्णे भोजनं विषम्।

दरिद्रस्य विषं गोष्ठी वृद्धस्य तरुणी विषम्।।

Sloka 16: त्यजेद्धर्म दयाहीनं विद्याहीनं गुरुं त्यजेत्।

त्यजेत्क्रोधमुखी भार्या निःस्नेहान्बान्धवांस्यजेत्।।

Sloka 17: अध्वाजरं मनुष्याणां वाजिनां बन्धनं जरा।

अमैथुनं जरा स्त्रीणां वस्त्राणामातपं जरा।।

Sloka 18: कः कालः कानि मित्राणि को देशः को व्ययागमोः।

कस्याहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः।।

Sloka 19: जनिता चोपनेता च यस्तु विद्यां प्रयच्छति।

अन्नदाता भयत्राता पञ्चैता पितरः स्मृताः।।

Sloka 20: राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च।

पत्नीमाता स्वमाता च पञ्चैताः मातर स्मृताः।।

Comments

comments

Leave a Reply

badge