Chanakya Neeti in Sanskrit–Chapter 3

Carrying forward our series, we present the original Slokas of the famous volume Chanakya Neeti by the famous political scientist, surgeon and thinker of India. Popularly known as Kautilya, he still inspires a generation.

Chanakya Neeti Slokas in Sanskrit: Chapter 1

Sloka 1: कस्य दोषः कुले नास्ति व्याधिना को न पीडितः।

व्यसनं केन न प्राप्तं कस्य सौख्यं निरन्तरम्।।

Sloka 2: आचारः कुलमाख्याति देशमाख्याति भाषणम्।

सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम्।।

Sloka 3: सकुले योजयेत्कन्या पुत्रं पुत्रं विद्यासु योजयेत्।

व्यसने योजयेच्छत्रुं मित्रं धर्मे नियोजयेत्।।

Sloka 4: दुर्जनेषु च सर्पेषु वरं सर्पो न दुर्जनः।

सर्पो दंशति कालेन दुर्जनस्तु पदे-पदे।।

Sloka 5: एतदर्थ कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम्।

आदिमध्यावसानेषु न त्यजन्ति च ते नृपम्।।

Sloka 6: प्रलये भिन्नमर्यादा भवन्ति किल सागराः।

सागरा भेदमिच्छन्ति प्रलयेऽपि न साधवः।।

Sloka 7: मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः।

भिनत्ति वाक्यशूलेन अदृश्ययं कण्टकं यथा।।

Sloka 8: रूपयौवनसम्पन्ना विशालकुलसम्भवाः।

विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः।।

Sloka 9: कोकिलानां स्वरो रूपं नारी रूपं पतिव्रतम्।

विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्।।

Sloka 10: त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्।।

Sloka 11: उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम्।

मौनेन कलहो नास्ति जागृतस्य च न भयम्।।

Sloka 12: अति रूपेण वै सीता चातिगर्वेण रावणः।

अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र वर्जयेत्।।

Sloka 13: को हि भारः समर्थानां किं दूर व्यवसायिनाम्।

को विदेश सुविद्यानां को परः प्रियवादिनम्।।

Sloka 14: एकेनापि सुवर्ण पुष्पितेन सुगन्धिता।

वसितं तद्वनं सर्वं सुपुत्रेण कुलं यथा।।

Sloka 15: एकेन शुष्कवृक्षेण दह्यमानेन वह्निना।

दह्यते तद्वनं सर्वं कुपुत्रेण कुलं यथा।।

Sloka 16: एकेनापि सुपुत्रेण विद्यायुक्ते च साधुना।

आह्लादितं कुलं सर्वं यथा चन्द्रेण शर्वरी।।

Sloka 17: किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः।

वरमेकः कुलावल्भबो यत्र विश्राम्यते कुलम्।।

Sloka 18: लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेत्।

प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत्।।

Sloka 19: उपसर्गेऽन्यच्रके च दुर्भिक्षो च भयावहे।

असाधुजनसम्पर्के पलायति स जीवति।।

Sloka 20: धर्मार्थकाममोश्रेषु यस्यैकोऽपि न विद्यते।

जन्म जन्मानि मर्त्येषु मरणं तस्य केवलम्।।

Sloka 21: मूर्खाः यत्र न पूज्यन्ते धान्यं यत्र सुसञ्चितम्।

दाम्पत्योः कलहो नास्ति तत्र श्री स्वयमागता।।

Comments

comments

Leave a Reply

badge