संस्कृत में कहानी–सहसा विदधीत न क्रियाम्

संस्कृत भाषा में लघु कथा पढ़नें में जो आनन्द मिलता है वो अकथनीय है। व्यक्तिगत स्तर पर मैं कह सकता हूँ कि यदि आप संस्कृत भाषा का अभ्यास करना चाहते हैं तो ये लघु कथायें सबसे लाभप्रद सिद्ध होती हैं। व्याकरण का भी अच्छा अभ्यास हो जाता है तो रोचक होने के कारण शीघ्रता से ये कथायें पढ़ ली जाती हैं।

इसी श्रङ्खला को आगे बढ़ाते हुये आज हम आप के लिये एक और लघु कथा ले के आये हैं

संस्कृत भाषा में कहानी–सहसा विदधीत न क्रियाम्

एकस्मिन् ग्रामे एक महिला वसति स्म। सा एकं नकुलं पालयति स्म। नकुलस्य विषये तस्याः बहुप्रीतिः आसीत्। महिलायाः एकः शिशुः अपि आसीत्। तस्याः गृहस्य समीपे जलं न आसीत्। जलम् आनेतुं सा दूरं गच्छति स्म।

एकस्मिन् दिने जलम् आनेतुं सा अगच्छत्। गृहे कोऽपि न आसीत्। तस्याः शिशुः निद्रितः आसीत्। महिला बहिः गता। तदा एकः सर्पः गृहम् आगतः। नकुलः सर्पम् अपश्यत्। सर्पः शिशुसमीपम् अगच्छत्। नकुलः तत्क्षणे एव सर्पस्य उपरि अपतत्। क्षणमात्रेण एव सः सर्पम् अमारयत्।

महिला जलं गृहीत्वा आगता। नकुलस्य मुखं रक्तमयम्।

सा अचिन्तयत्

अयं नकुलं मम शिशुम् अखादत्। अतः एव अस्य मुखं रक्तम्।

सा तत्क्षणे एव एकं शिलाखण्डं नकुलस्य उपरि अक्षिपत्। नकुलः मृतः। अनन्तरं सा गृहस्य अन्तः गता। तत्र शिशुः क्रीडति। तत्रैव मृतं सर्पम् अपश्यत। सा बहु दुःखिता अभवत्। अविचारेण मया नकुलः संहृतः इति सा पश्चात्तापेन पीडिता अभवत्।

अतः किमपि कार्यं सहसा न कर्तव्यम्।

विचारं कृत्वा एव कर्तव्यम्।

(इस कहानी का संस्कृत रूप संस्कृतभारती के द्वारा प्रकाशित पत्रालयद्वारा संस्कृतम् पत्रिका के नवम भाग में से लिया गया है)

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.