संस्कृत प्रहेलिका–Riddles in Sanskrit

अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः।

नास्ति पादद्वयं गाढम् अङ्गमालिङ्गति स्वयम्।।

उत्तरम्: युतकम्

 

वृक्षाग्रवासी न च पक्षिराजः त्रिणेत्रधारी न च शूलपाणिः।

त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः।।

उत्तरम्: नारिकेलम्

 

विष्णोः का बल्लभा देवी लोकत्रितयचारिणी।

वर्णावाद्यन्तिमौ दत्त्वा कः शब्दः तुल्यवाचकः।।

उत्तरम्: समानम्

 

पुरुषः कीदृशो वेत्ति प्रायेण सकलाः कलाः।

मध्यवर्णद्वयं त्यक्त्वा ब्रूहि कः स्यात् सुरालयः।।

उत्तरम्: नागरिक

 

अपदो दूरगामी च साक्षरो न च पण्डितः।

अमुखः स्फुटवक्ता च यो जानाति स पण्डितः।।

उत्तरम्: समपत्रम्

 

सानुजः काननं गत्वा यातुधानान् जघान कः।

मध्ये वर्णत्रयं दत्त्वा रावणः कीदृशो वद।।

उत्तरम्: राक्षसोत्तमः

 

किमिच्छति नरः काश्यां भूपानां को रणे हितः।

को वन्द्यः सर्वदेवानां दीयतामेकमुत्तरम्।।

उत्तरम्: मृत्युञ्जयः

 

न तस्यादिः न तस्यान्तः मध्ये यः तस्य तिष्ठति।

तवाप्यस्ति ममाप्यस्ति यदि जानासि तद्वद।।

उत्तरम्: नयनम्

 

दन्तैर्हीनः शिलाभक्षी निर्जीवो बहुभाषकः।

गुणस्यूतिसमृद्धोऽपि परपादेन गच्छति।।

उत्तरम्: पादरक्षा

1 thought on “संस्कृत प्रहेलिका–Riddles in Sanskrit”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.